शुक्ल यजुर्वेद (काण्व) 5.29
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यन्नो॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खान॑ ।
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खान॑ ।
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खान॑ ।
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ सजा॒तो यमस॑जातो निच॒खानोत्कृत्यां कि॑रामि ॥२॥