शुक्ल यजुर्वेद (काण्व) 37.18
१७ (२०२६)
विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते ।
दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान्पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये।
मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् ।
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ॥५॥