Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 25.19

१८ (१४७९)
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः ।
स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॑न्वा॒युः ।
स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
सूर्यः॑ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॒न्त्सूर्यः॑ ।
स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ॥६॥

पूरा अध्याय