Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 2.4

यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै।
यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः । मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै।
यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः ॥४॥

पूरा अध्याय