शुक्ल यजुर्वेद (काण्व) 2.35
स॒ᳪ स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धय॑श्च दे॒वाः ।
इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्व॒ᳪ स्वाहा॒ वाट् ।
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातᳪ सु॒म्ने स्थः॑ सु॒म्ने मां॑ धत्तम् ॥६॥