Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 19.36

(७) ३५
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒
नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे ।
पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒
एक॑विᳪशतिश्च म॒ एक॑विᳪशतिश्च मे॒ त्रयो॑विᳪशतिश्च मे॒ त्रयो॑विᳪशतिश्च मे ।
पञ्च॑विᳪशतिश्च मे॒ पञ्च॑विᳪशतिश्च मे स॒प्तवि॑ᳪशतिश्च मे स॒प्तवि॑ᳪशतिश्च मे॒ नव॑विᳪशतिश्च मे॒
नव॑विᳪशतिश्च म॒ एक॑त्रिᳪशच्च म॒ एक॑त्रिᳪशच्च मे॒ त्रय॑स्त्रिᳪशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥

पूरा अध्याय