शुक्ल यजुर्वेद (काण्व) 19.25
(४) २४
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे ।
सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे ।
सीसं॑ च मे॒ त्रपु॑ च मे श्या॒मं च॑ मे लो॒हं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥