Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 17.64

नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु ।
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये॒ऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु ।
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु ।
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१८॥

पूरा अध्याय