Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 16.84

आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒यायाᳪ समु॒द्रस्य॒ हृद॑ये ।
र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्यापृ॑थि॒वीमोर्व॒न्तरि॑क्षम् ।
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वती॒म् । दिवं॑ यच्छ॒ दिवं॑ दृᳪह॒ दिवं॒ मा हि॑ᳪसीः ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
सूर्य॑स्त्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥६॥

पूरा अध्याय