Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 16.79

(६) ७८ (९२७)
तप॑श्च तप॒स्य॑श्च शैशि॒रा ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
शै॒शि॒रा ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।
प॒रमे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम् ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाया॒ विश्वं॒ ज्योति॑र्यच्छ।
सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१॥

पूरा अध्याय