Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 15.6

(१) ५
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्देवैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्विश्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१॥

पूरा अध्याय