शुक्ल यजुर्वेद (काण्व) 15.35
पञ्च॑विᳪशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्स॒प्तवि॑ᳪशत्यास्तुवत॒
द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॑य॒ᳪस्त ए॒वाधि॑पतय आसन् ।
नव॑विᳪशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिᳪशतास्तुवत
प्र॒जा अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतय आसन् ।
त्रय॑स्त्रिᳪशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ।
लो॒कं पृ॑ण॒ ता अ॒स्येन्द्रं॒ विश्वाः॑ ॥४॥