Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 15.31

३० (८४४)
यवा॑नां भा॒गो॒ऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारि॒ᳪश स्तोमः॑ ।
ऋ॒भू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तᳪ स्पृ॒तं त्र॑यस्त्रि॒ᳪश स्तोमः॑ ।
सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिका ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
है॑मन्तिका ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒
तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५॥

पूरा अध्याय