Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 14.26

मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिका ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । वास॑न्तिका ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव
दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रुवे सी॑दतम् ॥११॥

पूरा अध्याय