शुक्ल यजुर्वेद (काण्व) 12.66
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् । मित्रै॒तां त॑ उ॒खां परि॑ददा॒म्यभि॑त्या ए॒षा मा भे॑दि ।
वस॑व॒स्त्वाछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वाछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ।
आ॒दि॒त्यास्त्वाछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥५॥