Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 12.59

५८ (६०६)
म॒खस्य॒ शिरो॑ऽसि॒ वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॑ पृथि॒व्य॑सि ।
धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय ।
रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वास्य॒न्तरि॑क्षमसि ।
धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय ।
आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॒ द्यौर॑सि ।
धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय ।
विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॒ दिशो॑ऽसि ।
धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय ।
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु ॥९॥

पूरा अध्याय