सूक्त 50
50.1
५ उचथ्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विम् ॥१॥
50.2
प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युव॑ः । यदव्य॒ एषि॒ सान॑वि ॥२॥
50.3
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः । पव॑मानं मधु॒श्चुत॑म् ॥३॥
50.4
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥४॥
50.5
स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभि॑ः । इन्द॒विन्द्रा॑य पी॒तये॑ ॥५॥