Utshovऐप डाउनलोड करें

सूक्त 38

38.1

६ रहूगण आङ्गिरसः । पवमानः सोमः । गायत्री ।

ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥१॥

38.2

ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥२॥

38.3

ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते॑ अप॒स्युव॑ः । याभि॒र्मदा॑य॒ शुम्भ॑ते ॥३॥

38.4

ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति । गच्छ॑ञ्जा॒रो न यो॒षित॑म् ॥४॥

38.5

ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशु॑ः । य इन्दु॒र्वार॒मावि॑शत् ॥५॥

38.6

ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः । क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥६॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.