सूक्त 24
24.1
७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
प्र सोमा॑सो अधन्विषु॒ः पव॑मानास॒ इन्द॑वः । श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥१॥
24.2
अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः । पु॒ना॒ना इन्द्र॑माशत ॥२॥
24.3
प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे । नृभि॑र्य॒तो वि नी॑यसे ॥३॥
24.4
त्वं सो॑म नृ॒माद॑न॒ः पव॑स्व चर्षणी॒सहे॑ । सस्नि॒र्यो अ॑नु॒माद्य॑ः ॥४॥
24.5
इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥५॥
24.6
पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्य॑ः । शुचि॑ः पाव॒को अद्भु॑तः ॥६॥
24.7
शुचि॑ः पाव॒क उ॑च्यते॒ सोम॑ः सु॒तस्य॒ मध्व॑ः । दे॒वा॒वीर॑घशंस॒हा ॥७॥