सूक्त 71
71.1
३ बाहुवृक्त आत्रेयः। मित्रावरुणौ। गायत्री।
आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ । उपे॒मं चारु॑मध्व॒रम् ॥१॥
71.2
विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः । ई॒शा॒ना पि॑प्यतं॒ धिय॑ः ॥२॥
71.3
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुष॑ः । अ॒स्य सोम॑स्य पी॒तये॑ ॥३॥