महाभारत 329.7
न ह्यृते मन्त्राद्धवनमस्ति
न विना पुरुषं तपः संभवति
हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः
ये च मानुषा होत्राधिकारास्ते च
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति