महाभारत 329.36
तामिन्द्र उवाच
गच्छ
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया
त्वमन्येनोपयातुमर्हसीति
सैवमुक्ता हृष्टा जगाम
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः