महाभारत 329.18
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम्
ततो देवा वर्धन्ते वयं क्षीयामः
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति