Utshovऐप डाउनलोड करें

महाभारत 3.15

स एवमुक्तः प्रत्युवाच
भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः
महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्
अस्य त्वेकमुपांशुव्रतम्
यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम्
यद्येतदुत्सहसे ततो नयस्वैनमिति

पूरा अध्याय