सूक्त 54
54.1
अध्यापकविघ्नशमनम्। (१-२) १ ब्रह्मा, २ भृगुः। १ ऋक्सामनी, २ इन्द्र। अनुष्टुप्।
ऋचं॒ साम॑ यजामहे॒ याभ्यां॒ कर्मा॑णि कु॒र्वते॑ ।
ए॒ते सद॑सि राजतो य॒ज्ञं दे॒वेषु॑ यच्छतः ॥१॥
54.2
ऋचं॒ साम॒ यदप्रा॑क्षं ह॒विरोजो॑ यजु॒र्बल॑म्।
ए॒ष मा॒ तस्मा॒न्मा हिं॑सी॒द् वेदः॑ पृ॒ष्टः श॑चीपते ॥२॥