सूक्त 36
36.1
अञ्जनम्। १ अथर्वा। अक्षि, मनः। अनुष्टुप्।
अ॒क्ष्यौऽनौ॒ मधु॑संकाशे॒ अनी॑कं नौ स॒मञ्ज॑नम्।
अ॒न्तः कृ॑ष्णुष्व॒ मां हृ॒दि मन॒ इन्नौ॑ स॒हास॑ति ॥१॥