सूक्त 22
22.1
ज्योतिः। १-२ ब्रह्मा। ब्रध्नः। १ द्विपदा एकावसाना विराड्-गायत्री. २ त्रिपदा अनुष्टुप्।
अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ॥१॥
22.2
ब्र॒ध्नः स॒मीची॑रु॒षसः॒ समै॑रयन्।
अ॒रे॒पसः॒ सचे॑तसः॒ स्वस॑रे मन्यु॒मत्त॑माश्चि॒ते गोः ॥२॥