Utshovऐप डाउनलोड करें

सूक्त 75

75.1

सपत्नक्षयणम्। १-३ कबन्धः। इन्द्रः। अनुष्टुप्, ३ षट्-पदा जगती।

निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑ ।
नै॒र्बा॒ध्येऽन ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥१॥

75.2

प॒र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा।
यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥२॥

75.3

एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑ ।
एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति ।
शश्व॒तीभ्यः॒ समा॑भ्यो॒ यावत् सूर्यो॒ अस॑द् दि॒वि ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.