सूक्त 31
31.1
गौः। १-३ उपरिबभ्रवः। गौः। गायत्री।
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्वः ॥१॥
31.2
अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः ।
व्यऽख्यन्महि॒षः स्वः ॥२॥
31.3
त्रिं॒शद् धामा॒ वि रा॑जति॒ वाक् प॑त॒ङ्गो अ॑शिश्रियत्।
प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ॥३॥