Utshovऐप डाउनलोड करें

सूक्त 23

23.1

अपां भैषज्यम्। १-३ शन्तातिः। आपः। १ अनुष्टुप्, २ त्रिपदा गायत्री, ३ परोष्णिक्।

स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑ ।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥१॥

23.2

ओता॒ आपः॑ कर्म॒ण्याऽमु॒ञ्चन्त्वि॒तः प्रणी॑तये ।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥२॥

23.3

दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः ।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.