Utshovऐप डाउनलोड करें

सूक्त 19

19.1

पावमानम्। १-३ शन्तातिः। चन्द्रमाः, १ देवजनाः, मनवः विश्वा भूतानि, पवमानः, २ पवमानः, ३ सविता। गायत्री, १ अनुष्टुप्।

पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑वो धि॒या।
पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ पव॑मानः पुनातु मा ॥१॥

19.2

पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।
अथो॑ अरि॒ष्टता॑तये ॥२॥

19.3

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
अ॒स्मान् पु॑नीहि॒ चक्ष॑से ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.