Utshovऐप डाउनलोड करें

सूक्त 15

15.1

शत्रुनिवारणम्। १-३ उद्दालकः। वनस्पतिः। अनुष्टुप्।

उ॒त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑ ।
उ॒प॒स्तिर॑स्तु सो॒३स्माकं॒ यो अ॒स्मां अ॑भि॒दास॑ति ॥१॥

15.2

सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्मां अ॑भि॒दास॑ति ।
तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥२॥

15.3

यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः ।
त॒लाशा॑ वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.