Utshovऐप डाउनलोड करें

सूक्त 134

134.1

शत्रुनाशनम्। १-३ शक्रः। वज्रः। १ परानुष्टुप् त्रिष्टुप्, २ अनुष्टुप्, ३ भुरिक् त्रिपदा गायत्री।

अ॒यं वज्र॑स्तर्पयतामृ॒तस्यावा॑स्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्।
शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥१॥

134.2

अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत् सृपत्।
वज्रे॒णाव॑हतः शयाम् ॥२॥

134.3

यो जि॒नाति॒ तमन्वि॑च्छ यो जि॒नाति॒ तमिज्ज॑हि ।
जि॒न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.