सूक्त 5
5.1
जगतो राजा १ अथर्वाङ्गिराः। इन्द्रः। त्रिष्टुप्।
इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ ।
ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द् राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥१॥