Utshovऐप डाउनलोड करें

सूक्त 18

18.1

सुरक्षा। १-१० अथर्वा। मन्त्रोक्ताः। १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः)

अ॒ग्निं ते वसु॑वन्तमृच्छन्तु ।ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त् ॥१॥

18.2

वा॒युं ते॒३ऽन्तरि॑क्षवन्तमृछन्तु । ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥२॥

18.3

सोमं॒ ते रु॒द्रव॑न्तमृछन्तु । ये मा॑घा॒यवो॒ दक्षि॑णाया दि॒शोऽभि॒दासा॑त् ॥३॥

18.4

वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु ।ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥४॥

18.5

सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त् ॥५॥

18.6

अ॒पस्त ओष॑धीमतीरृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥६॥

18.7

वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु । ये मा॑घा॒यव॒ उदी॑च्या दि॒शोऽभि॒दासा॑त् ॥७॥

18.8

इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥८॥

18.9

प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु । ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शोऽभि॒दासा॑त् ॥९॥

18.10

बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु । ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दासा॑त् ॥१०॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.