अथर्ववेद 1.13
या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑ ।
यये॑न्द्र त॒न्वा॒३ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒३शर्म॑ यच्छ॒ तवेद् वि॑ष्णो बहु॒धा वी॒र्याऽणि ।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योऽमन् ॥१३॥