Utshovऐप डाउनलोड करें

सूक्त 16

16.1

१-७ अथर्वा। अध्यात्मं, व्रात्यः। १,३ साम्नी उष्णिक्, २,४-५ प्राजापत्या उष्णिक्, ६ याजुषी त्रिष्टुप्, ७ आसुरी गायत्री।

तस्य॒ व्रात्य॑स्य ।योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी ॥१॥

16.2

तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयो॑ऽपा॒नः साष्ट॑का ॥२॥

16.3

तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या ॥३॥

16.4

तस्य॒ व्रात्य॑स्य । योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा ॥४॥

16.5

तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा ॥५॥

16.6

तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥६॥

16.7

तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मोऽपा॒नस्ता इ॒मा दक्षि॑णाः ॥७॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.