सूक्त 9
9.1
अध्यात्मम्। ५२-५३ प्राजापत्याऽनुष्टुप्, ५४ द्विपदार्षी गायत्री।
उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् । नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५२॥
9.2
प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम्। नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५३॥
9.3
भव॑द्वसुरि॒दद्व॑सुः सं॒यद्व॑सुरा॒यद्व॑सु॒रिति॒ त्वोपा॑स्महे व॒यम् ॥५४॥
9.4
नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥५५॥
9.5
अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥५६॥