अथर्ववेद 3.11
बृ॒हदे॑न॒मनु॑ वस्ते पु॒रस्ता॑द् रथंत॒रं प्रति॑ गृह्णाति प॒श्चात्।
ज्योति॒र्वसा॑ने॒ सद॒मप्र॑मा॒दं तस्य॑ दे॒वस्य॑।
क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ ।
उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥११॥